कक्षा-आठ पाठ-दो प्रश्न-उत्तर (बिलस्य वाणी न कदापि मे श्रुता) Class-8th Lesson-2 Qs.-Ans. Bilasya Vani Na Kadapi Me Shruta

संस्कृत (रुचिरा भाग 3)

कक्षा आठ पाठ दो
प्रश्न उत्तर
(बिलस्य वाणी न कदापि मे श्रुता)

प्रश्न 1 उच्चारणं कुरुत (उच्चारण करो)-
कस्मिंश्चित्  विचिन्त्य  साध्विदम्   क्षुधार्त:  एतच्छ्रुत्वा

भयसन्त्रस्तमनसाम् सिंहपदपद्धति: समाह्वानम् प्रतिध्वनि:

उत्तरम्– अध्यापकस्य सहायतया स्वयमेव उच्चारणं कुरुत।
(अध्यापक की सहायता से स्वयं ही उच्चारण करें)

प्रश्न 2 एकपदेन उत्तरं लिखत (एक पद में उत्तर लिखिए)-

(क) सिंहस्य नाम किम्?
उत्तरम् खरनखर:।
(ख) गुहाया: स्वामी क: आसीत्?
उत्तरम्- दधिपुच्छ:/ शृगाल:।
(ग) सिंह: कस्मिन् समये गुहाया: समीपे आगत:?
उत्तरम्- सूर्यास्तसमये।
(घ) हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
उत्तरम्- भयसन्त्रस्तमनसाम्।
(ङ) गुहा केन प्रतिध्वनिता?
उत्तरम्- सिंहस्य उच्चगर्जनेन।

प्रश्न 3 पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दीजिए)-

(क) खरनखर: कुत्र प्रतिवसति स्म?
उत्तरम्- खरनखर: कस्मिंश्चित् वने प्रतिवसति स्म।
(ख) महती गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
उत्तरम्- सः अचिन्तयत् यत् नूनम् अस्मिन् बिले रात्रौ कोऽपि जीवः आगच्छति।
(ग) शृगाल: किम् अचिन्तयत्?
उत्तरम् सः अचिन्तयत् यत् तस्य बिले नूनं कोऽपि सिंह: अस्ति।
(घ) शृगाल: कुत्र पलायित:?
उत्तरम्- शृगाल: दूरं पलायित:।
(ङ) गुहासमीपमागत्य शृगाल: किं पश्यति?
उत्तरम्- गुहासमीपमागत्य शृगाल: सिंहपदपद्धति: पश्यति।
(च) क: शोभते?
उत्तरम् अनागतं य: कुरुते स: शोभते।

 

प्रश्न 4 रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (रेखांकित पदों के आधार पर प्रश्ननिर्माण करो)-

(क) क्षुधार्तः सिंह: कुत्रापि आहारं न प्राप्तवान्।
उत्तरम् कीदृश: सिंह: कुत्रापि आहारं न प्राप्तवान्?
(ख) दधिपुच्छ: नाम शृगाल: गुहाया: स्वामी आसीत्।
उत्तरम् क: नाम शृगाल: गुहाया: स्वामी आसीत्?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति।
उत्तरम्- एषा गुहा कस्य सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां हस्तपादादिका: क्रिया: न प्रवर्तन्ते।
उत्तरम्- भयसन्त्रस्तमनसां कीदृश: क्रिया: न प्रवर्तन्ते?
(ङ) आह्वानेन शृगाल: बिले प्रविश्य सिंहस्य भोज्यं भविष्यति।
उत्तरम्- आह्वानेन शृगाल: कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति?

 

प्रश्न 5 घटनाकमानुसारं वाक्यानि लिखत। (घटनाक्रम के अनुसार वाक्य लिखो)-

(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(ख) सिंह: एकां महतीं गुहां अपश्यत्।
(ग) परिभ्रमन् सिंह: क्षुधार्तो जात:।
(घ) दूरस्थ: शृगाल: रवं कर्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

उत्तराणि-
(ग) परिभ्रमन् सिंह: क्षुधार्तो जात:।
(ख) सिंह: एकां महतीं गुहां अपश्यत्।
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
(घ) दूरस्थ: शृगाल: रवं कर्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्।

 

प्रश्न 6 यथानिर्देशमुत्तरत (निर्देश के अनुसार उत्तर दो)-

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत् ‘ अस्मिन वाक्ये कति विशेषणपदानि संख्यया सह पदानि अपि लिखत?
उत्तरम्- अस्मिन् वाक्ये द्वे विशेषणपदानि सन्ति -‘ एकां महतीं च’।
(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
उत्तरम्- अत्र ‘अहम्’ इति पदं शृगालाय प्रयुक्तम् अस्ति।
(ग) ‘त्वं मां न आह्वयसि’ अस्मिन वाक्ये कर्तृपदं किम्?
उत्तरम् अस्मिन् वाक्ये ‘त्वं’ कर्तृपदम् अस्ति।
(घ) ‘सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तरम्- अस्मिन् वाक्ये ‘दृश्यते’ क्रियापदम् अस्ति।
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम् अस्मिन् वाक्ये ‘अत्र’ अव्ययपदम् अस्ति।

 

प्रश्न 7 मंजूषात: अव्यय पदानि चित्वा रिक्त स्थानानि पूरयत (मंजूषा से अव्यय पदों को चुनकर रिक्त स्थान भरो)-

कश्चन दूरे नीचै: यदा तदा यदि तर्हि परम् च सहसा

एकस्मिन् वने ………………… व्याध: जालं विस्तीर्य ……………… स्थित:। क्रमशः आकाशात् सपरिवार: कपोतराज: ……………….. आगच्छत्। ……………… कपोता: तण्डुलान् अपश्यन् ……………….. तेषां लोभों जात:। परं राजा सहमत: नासीत्। तस्य युक्ति: आसीत् ………………. वने कोऽपि मनुष्य: नास्ति। ………….. कुतः तण्डुलानाम् सम्भव:। ……………… राज्ञः उपदेशम् अस्वीकृत्य कपोता: तण्डुलान् खादितुं प्रवृत्ताः जाले ………………. निपतिता:। अत: उक्तम् ‘…………………. विदधीत् न क्रियाम्’।

 

उत्तरम्-

एकस्मिन् वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमशः आकाशात् सपरिवार: कपोतराज: नीचै: आगच्छत्। यदा कपोता: तण्डुलान् अपश्यन् तदा तेषां लोभो जात:। परं राजा सहमत: नासीत्। तस्य युक्ति: आसीत् यदि वने कोऽपि मनुष्य: नास्ति, तर्हि कुतः तण्डुलानां सम्भव:। परं राज्ञः उपदेशम् अस्वीकृत्य कपोता: तण्डुलान् खादितुं प्रवृत्ताः जाले निपतिता:। अत: उक्तम् ‘सहसा विदधीत न क्रियाम्’।

 

 

4 1 vote
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top